रुद्री पाठ
ॐ
ॐ नमो भगवते रुद्राय
ॐ अथात्मानं शिवात्मानं श्री रुद्ररूपं ध्यायेत् ।
शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ।
नीलग्रीवं शशाङ्काङ्क नाग यज्ञोप वीतिनम् ।
व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ।
कमण्डलु-वक्ष सुत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटा शिखा मुद्द्योत धारिणम् ।
वृष स्कन्ध समारूढम् उमा देहार्थ धारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम् ।
दिग्देवता समायुक्तं सुरासुर नमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् ।
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ।
अथातो रुद्र स्नानार्चनाभिषेक विधिं व्याक्ष्यास्यामः ।
आदित एव तीर्थे स्नात्वा उदेत्य शुचिः
प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा
आत्मनि देवताः स्थापयेत् ।
प्रजनने ब्रह्मा तिष्ठतु। पादयोर्-विष्णुस्तिष्ठतु ।
हस्तयोर्-हरस्तिष्ठतु। बाह्वोरिन्द्रस्तिष्टतु ।
जठरे अग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु ।
कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु ।
नासिकयोर्-वायुस्तिष्ठतु। नयनयोश्-चन्द्रादित्यौ तिष्टेताम् ।
कर्णयोरश्विनौ तिष्टेताम्। ललाटे रुद्रास्तिष्ठन्तु ।
मूर्धन्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु।
शिखायां वामदेवास्तिष्ठतु। पृष्ठे पिनाकी तिष्ठतु।
पुरतः शूली तिष्ठतु। पाश्ययोः शिवाशङ्करौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहिः सर्वतोग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु।
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु। मां रक्षन्तु ।
ॐ
अग्निर्मे वाचि श्रितः । वाग्धृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
वायुर्मे प्राणे श्रितः । प्राणो हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
सूर्यो मे चक्षुषि श्रितः । चक्षुर-हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
चन्द्रमा मे मनसि श्रितः। मनो हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि।
दिशो मे श्रोत्रे श्रिताः । श्रोत्रम् हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
आपोमे रेतसि श्रिताः। रेतो हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
पृथिवी मे शरीरे श्रिताः । शरीरन् हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
ओषधि वनस्पतयो मे लोमसु श्रिताः। लोमानि हृदये। हृदयं मयि ।
अहममृते। अमृतं ब्रह्मणि ।
इन्द्रो मे बले श्रितः । बलञ् हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
पर्जन्यो मे मूर्दिन श्रितः। मूर्धा हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
ईशानो मे मन्यौ श्रितः । मन्युर हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि ।
आत्मा म आत्मनि श्रितः । आत्मा हृदये। हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि।
पुनर्म आत्मा पुनरायु रागात् । पुनः प्राणः पुनराकृतमागात ।
वैश्वानरो रश्मिभिर वावृधानः । अन्तस्तिष्ठत्वमृतस्य गोपाः ।
ॐ
अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य,
अघोर ऋषिः, अनुष्टुप् चन्दः,
सङ्कर्षण मूर्ति स्वरूपो यो सावादित्यः
परमपुरुषः स एष रुद्रो देवता ।
नमः शिवायेति बीजम् । शिवतरायेति शक्तिः ।
महादेवायेति कीलकम् ।
श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ।। ॐ
अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः ।
चातुर-मास्यात्मने मध्यमाभ्यां नमः ।
निरुढ पशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ।
अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्ण मासात्मने शिरसे स्वाहा।
चातुर-मास्यात्मने शिखायै वषट् ।
निरुढ पशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्रायफट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
॥ ध्यानं ॥
आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्-
ज्योतिः स्फाटिक-लिङ्ग मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः ।
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रो भिषिञ्चे-च्चिवम् ।
पीठम यस्य धरित्री जलधर कलशं लिङ्गमाकाशं मूर्तितम
नक्षत्रं पुष्पमालयं गृहाणणकुसुमम चंद्रवरू अक्रनेत्रं ।
कुक्षिह सप्त समुद्रम हिमगिरि शयनं सप्त पाताल
पादं वेदं वक्तं शंङ्ङ्गं दसदिसि वसनं दिव्य लिंगम नमामि ।
ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलित शशिकला-श्चण्ड कोदण्ड हस्ताः ।
र्त्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ।
ॐ गणानाम् त्या गणपतिं हवामहे कविं कवीनामुपम श्रवरतमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पद आ नः शृण्वन्जूतिभिस्सीद सादनम् ।
ॐ महागणपतये नमः ।। ॐ
शंच में मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे
सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे
भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे
धृतिश्च मे विश्वं च मे महश्च मे सविच्च मे ज्ञात्रं च मे
सूश्चमे प्रसुश्च मे सीरं च मे लयश्च म ऋतं च मेमृतं च मेयक्ष्मं च मे
नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेनमित्रं च मेभयं च मे
सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे।
ॐ शान्तिः शान्तिः शान्तिः ।।
ॐ
ॐ नमो भगवते रुद्राय ।। ॐ
नमस्ते रुद्र मन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने बाहभ्यामुत ते नमः ।
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शख्या या तव तया नो रुद्र मृडय ।
या ते रुद्र शिवा तनूरघोरा पापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ।
यामिषु गिरिशन्त हस्ते बिभष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत
शिवेन वचसा त्वा गिरिशाच्छावदामसि ।
यथा नः सर्वमिज्जगढ्यक्ष्मं सुमना असत् ।
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीग्रश्च सर्वा जम्भयन्त्सर्वाश्च यातुधान्यः ।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
ये चेमां रुद्रा अभितो दिक्षु श्रिताः सहसशो वैषान् हेड ईमहे।
असौ यो वसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्-नदृशन्-नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ।
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोहं तेभ्योकरन्नमः ।
प्रमुंच धन्वनस्-त्वमुभयोरार्तिन योज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप।
अवतत्य धनुस्त्वं सहसाक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ।
विज्यं धनुः कपर्दिनो विशल्यो बाणवाग्म् उत।
अनेशन्-नस्येषव आभुरस्य निषङ्गथिः ।
या ते हेतिर-मीडुष्टम हस्ते बभूव ते धनुः ।
तयास्मान, विश्वतस्-त्वमयक्ष्मया परिब्भुज ।
नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ।
परि ते धन्वनो हेतिरस्मान-वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् । 1।
नमस्ते अस्तु भगवन्-विश्वेश्वराय महादेवाय
त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय
कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय
सर्वेश्वराय सदाशिवाय श्रीमन्-महादेवाय नमः ।
नमो हिरण्य बाहवे सेनान्ये दिशां च पतये
नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये
नमो नमः सरिपञ्जराय त्विषीमते पथीनां पतये
नमो नमो बभ्लुशाय विव्याधिनेन्नानां पतये
नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये
नमो नमो भवस्य हेत्यै जगतां पतये
नमो नमो रुद्रायातताविने क्षेत्राणां पतये
नमो नमः सुतायाहंत्याय वनानां पतये
नमो नमो रोहिताय स्थपतये वृक्षाणां पतये
नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये
नमो नमो भुवन्तये वारिवस्कृता-यौषधीनां पतये
नमो नम उच्चर-घोषायाक्रन्दयते पत्तीनां पतये
नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः ।2।
नमः सहमानाय निव्याधिन आव्याधिनीनां पतये
नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये
नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये
नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये
नमो नमो निचेरवे परिचरायारण्यानां पतये
नमो नमः सृकाविभ्यो जिघां सद्भ्यो मुष्णतां पतये
नमो नमो सिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये
नमो नम उष्णीषिने गिरिचराय कुलुञ्चानां पतये
नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो
नमो नम आतन्-वानेभ्यः प्रतिदधानेभ्यश्च वो
नमो नम आयच्छद्भ्यो विसृजद्-भ्यश्च वो
नमो नमो स्सद्भ्यो विद्यद्-भ्यश्च वो
नमो नम आसीनेभ्यः शयानेभ्यश्च वो
नमो नमः स्वपद्भ्यो जाग्रद्-भ्यश्च वो
नमो नमस्तिष्ठद्भ्यो धावद्-भ्यश्च वो
नमो नमः सभाभ्यः सभापतिभ्यश्च वो
नमो नमो अश्वेभ्योश्वपतिभ्यश्च वो नमः । 3।
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो
नमो नम उगणाभ्यस्तृगं-हतीभ्यश्च वो
नमो नमो गुत्सेभ्यो नृत्सपतिभ्यश्च वो
नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो
नमो नमो गणेभ्यो गणपतिभ्यश्च वो
नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो
नमो नमो महद्भ्यः, क्षुल्लकेभ्यश्च वो
नमो नमो रथिभ्यो रथेभ्यश्च वो
नमो नमो रथेभ्यो रथपतिभ्यश्च वो
नमो नमः सेनाभ्यः सेनानिभ्यश्च वो
नमो नमः, क्षत्तृभ्यः सङ्ग्रहीतृभ्यश्च वो
नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो
नमो नमः कुलालेभ्यः कर्मारभ्यश्च वो
नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो
नमो नमः इषुकृद्भ्यो धन्वकृद्-भ्यश्च वो
नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो
नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः । 4।
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्धिने च
व्युप्तकेशाय च नमः सहसाक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेघुमते च नमो हस्वाय च
वामनाय च नमो बृहते च वर्षीयसे च
नमो वृद्धाय च स वृध्वने च नमो अग्रियाय च
प्रथमाय च नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊम्याय चावस्वन्याय च
नमः स्त्रोतस्याय च द्वीप्याय च । 5 ।
नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च नम उर्वर्याय च
खल्याय च नमः श्लोक्याय चा वसान्याय च
नमो वन्याय च कक्ष्याय च नमः श्रवाय च
प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूधिने च
नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च । 6 ।
नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च
प्रमृशाय च नमो दूताय च प्रहिताय च
नमो निषङ्गिणे चेषुधिमते च
नमस्-तीक्ष्योषवे चायुधिने च
नमः स्वायुधाय च सुधन्वने च नमः ररुत्याय च
पथ्याय च नमः काटयाय च नीप्याय च
नमः सुधाय च सरस्याय च नमो नाद्याय च
वैशन्ताय च नमः कूप्याय चावटयाय च
नमो वाय चावयिाय च नमो मेध्याय च विद्युत्याय च
नम ईधियाय चातप्याय च नमो वात्याय च रेष्मियाय च
नमो वास्तव्याय च वास्तुपाय च । 7 ।
नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्ङ्गाय च पशुपतये च
नम उग्राय च भीमाय च नमो अग्रेवधाय च
दूरेवधाय च नमो हन्त्रे च हनीयसे च
नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शम्भवे च
मयोभवे च नमः शङ्कराय च मयस्कराय च
नमः शिवाय च शिवतराय च नमस्तीध्याय च
कुल्याय च नमः पार्याय चावार्याय च
मः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च। ৪।
नम इरिण्याय च प्रपथ्याय च
नमः किंशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च नमो गोष्ठयाय च
गृह्याय च नमस्-तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पां सव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च नम ऊर्मयाय च
सूर्मयाय च नमः पर्णयाय च पर्णशचाय च नमो पशुरमाणाय चाभिघ्नते च नम आखिखखदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्-केभ्यो नम आनिर् हतेभ्यो नम आमीवत्-केभ्यः ।9।
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्-नील॑लोहित ।
ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्मा रो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् ।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी ।
शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॓ ॥
इ॒माग्ं रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॓ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् ।
यथा॑ नः॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरम् ।
मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑உवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोஉव॑धीर्-ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।
आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्-नम॒स्मे ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यथा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हा॓ः ।
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒ममु॑पह॒न्तुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेना॓ः ।
परि॑णो रु॒द्रस्य॑ हे॒तिर्-वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒ति र॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्-भ्यस्-तनुष्व मीढ्-व॑स्तो॒काय॒ तन॑याय मृडय ।
मीढु॑ष्टम॒ शिव॑मत शि॒वो नः॑ सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ।
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रग्ं॑ हे॒तयो॒न्यम॒स्मन्-निव॒पन्तु ताः ।
स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ 10 ॥
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या॓म् ।
तेषाग्ं॑ सहस्रयोज॒नेव॒धन्वा॑नि तन्मसि ।
अ॒स्मिन्-म॑ह॒त्-य॑र्ण॒वे॓न्तरि॑क्षे भ॒वा अधि॑ ।
नील॑ग्रीवाः शिति॒कण्ठा॓ः श॒र्वा अ॒धः, क्ष॑माच॒राः ।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
ये भू॒ताना॒म्-अधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः ।
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा॑ य॒व्युधः॑ ।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ।
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑ सहस्रयोज॒नेव॒धन्वा॑नि तन्मसि ।
नमो॑ रु॒ध्रेभ्यो॒ ये पृ॑थि॒व्यां ये॓न्तरि॑क्षे ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्-ष॒मिष॑व॒स्-तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्-दशो-दी॑ची॒र्-दशो॒र्ध्वास्-तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥ 11 ॥
त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृत्यो॑र्-मुक्षीय॒ मा मृता॓त् ।
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
तमु॑ ष्टु॒हि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा॓म॒हे सौ॓मन॒साय॑ रु॒द्रं नमो॓भिर्-दे॒वमसु॑रं दुवस्य ।
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॓ वि॒श्वभे॓षजो॒यग्ं शि॒वाभि॑मर्शनः ।
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॓ ।
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना॓प्याय॒स्व ॥
सदाशि॒वोम् ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑
ॐ अग्ना॑विष्णो स॒जोष॑से॒माव॑र्धन्तु वां॒ गिरः॑ ।
द्यु॒म्नैर्-वाजे॑भिराग॑तम् ।
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे॒ श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मे पा॒नश्च॑ मे व्या॒नश्च॒ मे सु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे ङ्गा॑नि च मे॒ स्थानि॑ च मे॒ परूग्ं॑षि च मे॒ शरी॑राणि च मे ॥ 1 ॥
जैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे म॑श्च॒ मे म्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भूतं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं च म ऋ॒द्धं च म ऋद्धिश्च मे क्लु॒प्तं च॑ मे॒ क्लुप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ 2 ॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे नुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे स॒ंविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒உमृतं॑ च मेஉय॒क्ष्मं च॒ मे ना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेஉनमि॒त्रं च॒ मे भ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे॒ सु॒दिनं॑ च मे ॥ 3 ॥
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मे क्षि॑तिश्च मे॒ कूय॑वाश्च॒ मे न्नं॑ च॒ मे क्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा॓श्च मे॒ माषा॓श्च मे॒ तिला॓श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा॓श्च मे गो॒धूमा॓श्च मे म॒सुरा॓श्च मे प्रि॒यङ्ग॑वश्च॒ मेஉण॑वश्च मे श्या॒माका॓श्च मे नी॒वारा॓श्च मे ॥ 4 ॥
अश्मा च॑ मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्-पत॑यश्च मे॒ हिर॑ण्यं च॒ मे य॑श्च मे॒ सीसं॑ च॒ मे त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे ग्निश्च॑ म आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्णप॒च्यं च॑ मे कृष्णपच्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेஉर्थ॑श्च म॒ एम॑श्च म इति॑श्च मे॒ गति॑श्च मे ॥ 5 ॥
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्ठा॑ च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे श्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मेஉन्तरि॑क्षं च म॒ इन्द्र॑श्च मे द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ 6 ॥
अ॒ग्ं॒शुश्च॑ मे र॒श्मिश्च॒ मेஉदा॓भ्यश्च॒ मेஉधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मेஉन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मेஉतिग्रा॒ह्या॓श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया॓श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ 7 ॥
इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ दिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेஉधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी॓ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा॓श्च मे पच॒ताश्च॑ मे वभृथश्च॑ मे स्वगाका॒रश्च॑ मे ॥ 8 ॥
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒உर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेஉश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेஉदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मे होरा॒त्रयो॓र्-दृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॒ मे य॒ज्ञेन॑ कल्पेताम् ॥ 9 ॥
गर्भा॓श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वीच॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मे न॒ड्वां च मे धे॒नुश्च॑ म॒ आयु॑र्-य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पताम्-अपा॒नो य॒ज्ञेन॑ कल्पतां॒ व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्-य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्-य॒ज्ञेन॑ कल्पताम्-आ॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ 10 ॥
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॒दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विग्ंशतिश्च मे॒ त्रयो॑विग्ंशतिश्च मे॒ पञ्च॑विग्ंशतिश्च मे स॒प्त विग्ं॑शतिश्च मे॒ नव॑विग्ंशतिश्च म॒ एक॑त्रिग्ंशच्च मे॒ त्रय॑स्त्रिग्ंशच्च मे॒ चत॑स्-रश्च मे॒உष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विग्ंश॒तिश्च॑ मे॒ चतु॑र्विग्ंशतिश्च मे॒உष्टाविग्ं॑शतिश्च मे॒ द्वात्रिग्ं॑शच्च मे॒ षट्-त्रिग्ं॑शच्च मे चत्वारि॒ग्॒ंशच्च॑ मे॒ चतु॑श्-चत्वारिग्ंशच्च मे ष्टाच॑त्वारिग्ंशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्-चान्त्याय॒नश्-चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्-चाधि॑पतिश्च ॥ 11 ॥
ॐ इडा॑ देव॒हूर्-मनु॑र्-यज्ञ॒नीर्-बृह॒स्पति॑रुक्थाम॒दानि॑ शग्ंसिष॒द्-विश्वे॑-दे॒वाः सू॓क्त॒वाचः॒ पृथि॑विमात॒र्मा मा॑ हिग्ंसी॒र्-म॒धु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॒मुद्यासग्ंशुश्रूषे॒ण्या॓म् मनु॒ष्ये॓भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोஉनु॑मदन्तु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इसे शुक्लयजुर्वेदीय रुद्राष्टाध्यायी (Rudri Paath) भी कहते हैं। रुद्राष्टाध्यायी दो शब्द रुद्र अर्थात् शिव और अष्टाध्यायी अर्थात् आठ अध्यायों वाला, इन आठ अध्यायों में शिव समाए हैं। वैसे तो रुद्राष्टाध्यायी में कुल दस अध्याय हैं परंतु आठ तक को ही मुख्य माना जाता है।
रुद्र (शिव) के उपासना के निमित्त रुद्राष्टाध्यायी ग्रंथ वेद का ही सारभूत संग्रह है। जिस प्रकार दूध से मक्खन निकालते हैं उसी प्रकार जनकल्याणार्थ शुक्लयजुर्वेद से रुद्राष्टाध्यायी का भी संग्रह हुआ है। इस ग्रंथ में गृहस्थधर्म, राजधर्म, ज्ञान-वैराज्ञ, शांति, ईश्वरस्तुति आदि अनेक सर्वोत्तम विषयों का वर्णन है।
मनुष्य का मन विषयलोलुप होकर अधोगति को प्राप्त न हो और व्यक्ति अपनी चित्तवृत्तियों को स्वच्छ रख सके इसके निमित्त रुद्र का अनुष्ठान करना मुख्य और उत्कृष्ट साधन है। यह रुद्रानुष्ठान प्रवृत्ति मार्ग से निवृत्ति मार्ग को प्राप्त करने में समर्थ है। इसमें ब्रह्म (शिव) के निर्गुण और सगुण दोनों रूपों का वर्णन हुआ है।
रुद्री पाठ के लाभ –
जहाँ लोक में इसके जप, पाठ तथा अभिषेक आदि साधनों से भगवद्भक्ति, शांति, पुत्र पौत्रादि वृद्धि, धन धान्य की सम्पन्नता और स्वस्थ जीवन की प्राप्ति होती है; वहीं परलोक में सद्गति एवं मोक्ष भी प्राप्त होता है।
Tags



